Chapter 18 · Verse 15

Yoga through the Perfection of Renunciation and Surrender

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः
śharīra-vāṅ-manobhir nyāyyaṁ viparītaṁ pañchaite

Word Meanings

śharīra-vāk-manobhiḥ yat karma prārabhate naraḥ nyāyyam viparītam pañcha ete tasya hetavaḥ

Translation

No translations available for this language.

Commentary

।।18.15।।एतेषामेव सर्वकर्महेतुत्वमाह -- शरीरेति। यथोक्तैः पञ्चभिः प्रारभ्यमाणं कर्म त्रिष्वेवान्तर्भाव्यशरीरवाङ्मनोभिरित्युक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः। शरीरादिभिर्यद्यत्कर्म धर्म्य वाऽधर्म्यं वा करोति नरस्तस्य सर्वस्य कर्मण एते पञ्च हेतवः।