Chapter 18 · Verse 16

Yoga through the Perfection of Renunciation and Surrender

तत्रैवं सति कर्तारमात्मानं केवलं तु यः।पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः
tatraivaṁ sati ātmānaṁ kevalaṁ paśhyaty akṛita-buddhitvān sa

Word Meanings

tatra evam sati kartāram ātmānam kevalam tu yaḥ paśhyati akṛita-buddhitvāt na saḥ paśhyati durmatiḥ

Translation

No translations available for this language.

Commentary

।।18.16।।ततः किमत आह -- तत्रेति। तत्र सर्वस्मिन्कर्मणि एते पञ्च हेतव इत्येवं सति केवलं निरुपाधिकमसङ्गमात्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशत्यागेनासंस्कृतबुद्धित्वाद्दुर्मतिरसौ सम्यङ्न पश्यति।