Chapter 18 · Verse 14

Yoga through the Perfection of Renunciation and Surrender

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्
adhiṣhṭhānaṁ karaṇaṁ pṛithag-vidham vividhāśh cheṣhṭā daivaṁ chaivātra

Word Meanings

adhiṣhṭhānam tathā kartā karaṇam cha pṛithak-vidham vividhāḥ cha pṛithak cheṣhṭāḥ daivam cha eva atra pañchamam

Translation

No translations available for this language.

Commentary

।।18.14।।तान्येवाह -- अधिष्ठानमिति। अधिष्ठानं शरीरं? कर्ता चिज्जडग्रन्थिरहंकारः? पृथग्विधमनेकप्रकारं करणं,चक्षुःश्रोत्रादि? विविधाश्च कार्यतः स्वरूपतश्च पृथग्भूताश्चेष्टाः प्राणापानादीनां व्यापाराः। अत्र चैतेष्वेव पञ्चमं दैवं च कारणं चक्षुराद्यनुग्राहकमादित्यादिसर्वप्रेरकोऽन्तर्यामी वा।