Chapter 17 · Verse 7

Yoga through Discerning the Three Divisions of Faith

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु
āhāras tv tri-vidho yajñas tapas dānaṁ teṣhāṁ imaṁ

Word Meanings

āhāraḥ tu api sarvasya tri-vidhaḥ bhavati priyaḥ yajñaḥ tapaḥ tathā dānam teṣhām bhedam imam śhṛiṇu

Translation

No translations available for this language.

Commentary

।।17.7।।आहारादिभेदादपि सात्त्विकादिभेदं दर्शयितुमाह -- आहारस्त्वित्यादित्रयोदशभिः। सर्वस्यापि जनस्य य,आहारोऽन्नादिः स तु यथायथं त्रिविधः प्रियो भवति। तथा यज्ञतपोदानानि च त्रिविधानि भवन्ति। तेषां च वक्ष्यमाणमिमं भेदं श्रृणु। एतच्च राजसतामसाहारयज्ञादिपरित्यागेन सात्त्विकाहारयज्ञादिसेवया सत्त्ववृद्धौ यत्नः कर्तव्य इत्येतदर्थं कथ्यते।