Chapter 17 · Verse 6

Yoga through Discerning the Three Divisions of Faith

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्
śharīra-sthaṁ māṁ chaivāntaḥ śharīra-sthaṁ viddhy

Word Meanings

karṣhayantaḥ śharīra-stham bhūta-grāmam achetasaḥ mām cha eva antaḥ śharīra-stham tān viddhi āsura-niśhchayān

Translation

No translations available for this language.

Commentary

।।17.6।।किंच -- कर्शयन्त इति। शरीरस्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः वृथैवोपवासादिभिः कृशं कुर्वन्तोऽचेतसोऽविवेकिनः मां च अन्तर्यामितया अन्तःशरीरस्थं देहमध्ये स्थितं मदाज्ञालङ्घनेनैव कर्शयन्तः सन्त एवं ये तपश्चरन्ति तानासुरनिश्चयानासुरोऽतिक्रूरो निश्चयो येषां तान् विद्धि।