Chapter 17 · Verse 8

Yoga through Discerning the Three Divisions of Faith

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः
āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ sthirā hṛidyā

Word Meanings

āyuḥ sattva bala ārogya sukha prīti vivardhanāḥ rasyāḥ snigdhāḥ sthirāḥ hṛidyāḥ āhārāḥ sāttvika-priyāḥ

Translation

No translations available for this language.

Commentary

।।17.8।।तत्राहारत्रैविध्यमाह -- आयुरिति त्रिभिः। आयुर्जीवितम्? सत्त्वमुत्साहः? बलं शक्तिः? आरोग्यं रोगराहित्यम्? सुखं चित्तप्रसादः? प्रीतिरभिरुचिः? आयुरादीनां विवर्धनाः विशेषेण वृद्धिकरास्ते च रस्या रसवन्तः? स्निग्धाः स्नेहयुक्ताः? स्थिरा देहे सारांशेन चिरकालावस्थायिनः? हृद्या दृष्टमात्रा एव हृदयंगमाः एवंभूता आहारा भक्ष्यभोज्यादयः सात्त्विकप्रियाः।