Chapter 7 · Verse 18

Self-Knowledge and Enlightenment

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्
sarva evaite tvātmaiva sa yuktātmā evānuttamāṁ

Word Meanings

udārāḥ sarve eva ete jñānī tu ātmā eva me matam āsthitaḥ saḥ hi yukta-ātmā mām eva anuttamām gatim

Translation

No translations available for this language.

Commentary

।।7.18।। तर्हि किमितरे त्रयस्त्वद्भक्ताः संसरन्ति नहि नहीत्याह उदारा इति। सर्वेऽप्येत उदारा महान्तः। मोक्षभाज एवेत्यर्थः। ज्ञानी पुरात्मैवेति मे मतं निश्चयः। हि यस्मात् स ज्ञानी युक्तात्मा मदेकचित्तः सन् न विद्यत उत्तमा यस्यास्तामनुत्तमां सर्वोत्तमां गतिं मामेवास्थित आश्रितवान्। मद्व्यतिरिक्तमन्यत्फलं न मन्यत इत्यर्थः।