Chapter 7 · Verse 19

Self-Knowledge and Enlightenment

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः
bahūnāṁ jñānavān māṁ sa mahātmā

Word Meanings

bahūnām janmanām ante jñāna-vān mām prapadyate vāsudevaḥ sarvam iti saḥ mahā-ātmā su-durlabhaḥ

Translation

No translations available for this language.

Commentary

।।7.19।।एवंभूतो मद्भक्तोऽतिदुर्लभ इत्याह बहूनामिति। बहूनां जन्मनां किंचित्किंचित्पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान्सन्सर्वमिदं चराचरं वासुदेव एवेति सर्वात्मदृष्ट्या मां प्रपद्यते भजति अतः स महात्माऽपरिच्छिन्नदृष्टिः सुदुर्लभः।