Chapter 7 · Verse 17

Self-Knowledge and Enlightenment

तेषां ज्ञानी नित्ययुक्त एकभक्ितर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः
teṣhāṁ nitya-yukta eka-bhaktir priyo jñānino ’tyartham ahaṁ sa

Word Meanings

teṣhām jñānī nitya-yuktaḥ eka bhaktiḥ viśhiṣhyate priyaḥ hi jñāninaḥ atyartham aham saḥ cha mama priyaḥ

Translation

No translations available for this language.

Commentary

।।7.17।।एतेषां मध्ये ज्ञानी श्रेष्ठ इत्याह तेषामिति। तेषां मध्ये ज्ञानी विशिष्टः। तत्र हेतवः नित्ययुक्तः। सदा मन्निष्ठः एकस्मिन्मय्येव भक्तिर्यस्य सः। ज्ञानिनो देहाद्यभिमानाभावेन चित्तविक्षेपाभावान्नित्ययुक्तत्वमेकान्तभक्तित्वं च संभवति नान्यस्य। अतएव हि तस्याहमत्यन्तं प्रियः स च मम। तस्मादेतैर्नित्ययुक्तत्वादिभिश्चतुर्भिर्हेतुभिः स उत्तम इत्यर्थः।