Chapter 7 · Verse 16

Self-Knowledge and Enlightenment

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ
chatur-vidhā māṁ sukṛitino ’rjuna ārto jijñāsur arthārthī bharatarṣhabha

Word Meanings

chatuḥ-vidhāḥ bhajante mām janāḥ su-kṛitinaḥ arjuna ārtaḥ jijñāsuḥ artha-arthī jñānī cha bharata-ṛiṣhabha

Translation

No translations available for this language.

Commentary

।।7.16।।सुकृतिनस्तु मां भजन्ति ते च सुकृततारतम्येन चतुर्विधा इत्याह चतुर्विधा इति। पूर्वजन्मसु ये कृतपुण्या जनास्ते मां भजन्ति। ते तु चतुर्विधाःआर्तो रोगाद्यभिभूतः। स यदि पूर्वं कृतपुण्यस्तर्हि मां भजति अन्यथा क्षुद्रदेवताभजनेन संसरति। एवमुत्तरत्रापि द्रष्टव्यम्। जिज्ञासुरात्मज्ञानेच्छुः अर्थार्थी अत्र वा परत्र वा भोगसाधनभूतार्थलिप्सुः ज्ञानी च आत्मवित्।