Chapter 7 · Verse 15

Self-Knowledge and Enlightenment

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः
māṁ duṣhkṛitino narādhamāḥ māyayāpahṛita-jñānā āsuraṁ

Word Meanings

na mām duṣhkṛitinaḥ mūḍhāḥ prapadyante nara-adhamāḥ māyayā apahṛita jñānāḥ āsuram bhāvam āśhritāḥ

Translation

No translations available for this language.

Commentary

।।7.15।।किमिति तर्हि सर्वे त्वामेव न भजन्ति तत्राह न मामिति। नरेषु येऽधमास्ते मां न प्रपद्यन्ते न भजन्ति। अधमत्वे हेतुः मूढा विवेकशून्याः। तत्कुतः दुष्कृर्तिनः पापशीलाः। अतो माययापहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातमपि ज्ञानं येषां ते तथा अतएवदम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च इत्यादिना वक्ष्यमाणमासुरं भावं स्वभावं प्राप्ताः सन्तो न मां भजन्ति।