Chapter 14 · Verse 8

Yoga through Understanding the Three Modes of Material Nature

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत
tamas tv ajñāna-jaṁ mohanaṁ pramādālasya-nidrābhis tan

Word Meanings

tamaḥ tu ajñāna-jam viddhi mohanam sarva-dehinām pramāda ālasya nidrābhiḥ tat nibadhnāti bhārata

Translation

No translations available for this language.

Commentary

।।14.8।। तमसो लक्षणं बन्धकत्वं चाह -- तम इति। तमस्तु अज्ञानाज्जातं आवरणशक्तिप्रधानात्प्रकृत्यंशादुद्भूतं विद्धीत्यर्थः। अतः सर्वेषां देहिनां मोहनं भ्रान्तिजनकं। अतएव प्रमादेनालस्येन निद्रया च तत्तमो देहिनं निबध्नाति। तत्र प्रमादोऽनवधानं? आलस्यमनुद्यमः? निद्रा चित्तस्यावसादो लयः।