Chapter 14 · Verse 7

Yoga through Understanding the Three Modes of Material Nature

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्
rajo rāgātmakaṁ tṛiṣhṇā-saṅga-samudbhavam tan

Word Meanings

rajaḥ rāga-ātmakam viddhi tṛiṣhṇā saṅga samudbhavam tat nibadhnāti kaunteya karma-saṅgena dehinam

Translation

No translations available for this language.

Commentary

।।14.7।।रजसो लक्षणं बन्धकत्वं चाह -- रजोरागेति। रजःसंज्ञकं गुणं रागात्मकमनुरञ्जनरूपं विद्धि। अतएव तृष्णासङ्गसमुद्भवम्। तृष्णा अप्राप्तेऽर्थेऽभिलाषः? सङ्गः प्राप्तेऽर्थे प्रीतिर्विशषेणासक्तिस्तयोस्तृष्णासङ्गयोः समुद्भवो यस्मात्तद्रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासात्तया नितरां बध्नाति। तृष्णासङ्गाभ्यां हि कर्मस्वासक्तिर्भवति।