Chapter 18 · Verse 55

Yoga through the Perfection of Renunciation and Surrender

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्
yaśh chāsmi tato māṁ tattvato tad-anantaram

Word Meanings

bhaktyā mām abhijānāti yāvān yaḥ cha asmi tattvataḥ tataḥ mām tattvataḥ jñātvā viśhate tat-anantaram

Translation

No translations available for this language.

Commentary

।।18.55।।ततश्च -- भक्त्या मामिति। तया च परया भक्त्या तत्त्वतो मामभिजानाति। कथंभूतम्? यावान् सर्वव्यापी यश्चास्मि सच्चिदानन्दघनस्तथाभूतम्। ततश्च मामेवं तत्त्वतो ज्ञात्वा तदनन्तरं तस्य ज्ञानस्याप्युपरमे सति मां विशते। परमानन्दरूपो भवतीत्यर्थः।