Chapter 18 · Verse 54

Yoga through the Perfection of Renunciation and Surrender

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्
prasannātmā mad-bhaktiṁ

Word Meanings

brahma-bhūtaḥ prasanna-ātmā na śhochati na kāṅkṣhati samaḥ sarveṣhu bhūteṣhu mat-bhaktim labhate parām

Translation

No translations available for this language.

Commentary

।।18.54।।ब्रह्माहमित्येवं नैश्चल्येनावस्थानस्य फलमाह -- ब्रह्मभूत इति। ब्रह्मभूतो ब्रह्मण्यवस्थितः प्रसन्नचित्तो नष्टं न शोचति। न चाप्राप्तं काङ्क्षति देहाद्यभिमानाभावात्। अतएव सर्वेष्वपि भूतेषु समः सन् रागद्वेषादिकृतविक्षेपाभावात्सर्वभूतेषु मद्भावनालक्षणां परां मद्भक्तिं लभते।