Chapter 17 · Verse 11

Yoga through Discerning the Three Divisions of Faith

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः
aphalākāṅkṣhibhir yajño vidhi-driṣhṭo ya yaṣhṭavyam eveti sa

Word Meanings

aphala-ākāṅkṣhibhiḥ yajñaḥ vidhi-driṣhṭaḥ yaḥ ijyate yaṣhṭavyam-eva-iti manaḥ samādhāya saḥ sāttvikaḥ

Translation

No translations available for this language.

Commentary

।।17.11।।यज्ञोऽपि त्रिविधः तत्र सात्त्विकं यज्ञमाह -- अफलाकाङ्क्षिभिरिति त्रिभिः। फलाकाङ्क्षारहितैः पुरुषैर्विधिना दृष्ट आवश्यकतया विहितो यो यज्ञ इज्यतेऽनुष्ठीयते स सात्त्विको यज्ञः। कथमिज्यते यष्टव्यमेवेति यज्ञानुष्ठानमेव कार्यं नान्यत्फलं साधनीयमित्येवं मनः समाधाय। एकाग्रं कृत्वेत्यर्थः।