Chapter 17 · Verse 10

Yoga through Discerning the Three Divisions of Faith

यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्
yāta-yāmaṁ gata-rasaṁ paryuṣhitaṁ chāmedhyaṁ bhojanaṁ tāmasa-priyam

Word Meanings

yāta-yāmam gata-rasam pūti paryuṣhitam cha yat uchchhiṣhṭam api cha amedhyam bhojanam tāmasa priyam

Translation

No translations available for this language.

Commentary

।।17.10।।तथा -- यातयाममिति। यातो यामः प्रहरो यस्य पक्वस्योदनादेस्तद्यातयामम्? शैत्यावस्थां प्राप्तमित्यर्थः। गतरसं निष्पीडितसारम्? पूति दुर्गन्धं? पर्युषितं दिनान्तरपक्वम्? उच्छिष्टमन्यभुक्तावशिष्टम्? अमेध्यमभक्ष्यं कलञ्जादि? एवंभूतं भोजनं भोज्यं तामसस्य प्रियम्।