Chapter 16 · Verse 19

Yoga through Discerning the Divine and Demoniac Natures

तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु
ahaṁ narādhamān kṣhipāmy āsurīṣhv

Word Meanings

tān aham dviṣhataḥ krūrān sansāreṣhu nara-adhamān kṣhipāmi ajasram aśhubhān āsurīṣhu eva yoniṣhu

Translation

No translations available for this language.

Commentary

।।16.19।। तेषां कदाचिदप्यासुरस्वभावप्रच्युतिर्न भवतीत्याह -- तानिति द्वाभ्याम्। तानहं मां द्विषतः क्रूरान्संसारेषु जन्ममृत्युमार्गेषु? तत्रापि आसुरीष्वेवातिक्रूरासु व्याघ्रादियोनिषु अजस्रमनवरतं क्षिपामि। तेषां पापकर्मणां तादृशं फलं ददामीत्यर्थः।