Chapter 16 · Verse 18

Yoga through Discerning the Divine and Demoniac Natures

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः
ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ pradviṣhanto ’bhyasūyakāḥ

Word Meanings

ahankāram balam darpam kāmam krodham cha sanśhritāḥ mām ātma-para-deheṣhu pradviṣhantaḥ abhyasūyakāḥ

Translation

No translations available for this language.

Commentary

।।16.18।।अविधिपूर्वकत्वमेव प्रपञ्चयति -- अहंकारमिति। अहंकारादिसंश्रिताः सन्त आत्मपरदेहेषु स्वदेहेषु परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तो यजन्ते। दम्भयज्ञेषु श्रद्धाया अभावादात्मनो वृथैव पीडा भवति। तथा पश्वादीनामपि अविधिना हिंसायां चैतन्यद्रोहमात्रमेवावशिष्यत इति प्रद्विषन्त इत्युक्तम्। अभ्यसूयकाः सन्मार्गवर्तिनां गुणेषु दोषारोपकाः।