Chapter 11 · Verse 32

Yoga through Beholding the Cosmic Form of God

श्री भगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः
śhrī-bhagavān uvācha kālo ’smi pravṛiddho ’pi tvāṁ na bhaviṣhyanti ’vasthitāḥ pratyanīkeṣhu

Word Meanings

śhrī-bhagavān uvācha kālaḥ asmi loka-kṣhaya-kṛit pravṛiddhaḥ lokān samāhartum iha pravṛittaḥ ṛite api tvām na bhaviṣhyanti sarve ye avasthitāḥ prati-anīkeṣhu yodhāḥ

Translation

No translations available for this language.

Commentary

।।11.32।।एवं प्रार्थितः सन् श्रीभगवानुवाच -- कालोऽस्मीति त्रिभिः। लोकानां क्षयकर्ता प्रवृद्धोऽत्युग्रः कालोऽस्मि। लोकान्प्राणिनः संहर्तुमिह लोके प्रवृत्तोऽस्मि। अतः। ऋतेऽपि त्वामिति। त्वां हन्तारं विनापि न भविष्यन्ति न जीविष्यन्ति। यद्यपि त्वया न हन्तव्या एते तथापि मया कालात्मना ग्रस्ताः सन्तो मरिष्यन्त्येव। के ते। प्रत्यनीकेषु अनीकान्यनीकानि प्रति भीष्मद्रोणादीनां सर्वासु सेनासु ये योद्धारोऽवस्थितास्ते सर्वेऽपि।