Chapter 11 · Verse 31

Yoga through Beholding the Cosmic Form of God

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्
ko ugra-rūpo namo ’stu ādyaṁ

Word Meanings

ākhyāhi me kaḥ bhavān ugra-rūpaḥ namaḥ astu te deva-vara prasīda vijñātum ichchhāmi bhavantam ādyam na hi prajānāmi tava pravṛittim

Translation

No translations available for this language.

Commentary

।।11.31।।यत एवं तस्मात् -- आख्याहीति। भवानुग्ररूपः क इत्याख्याहि कथय। तुभ्यं नमोऽस्तु। हे देववर? प्रसीद प्रसन्नो भव। भवन्तमाद्यं पुरुषं विशेषेण ज्ञातुमिच्छामि। यतस्तव प्रवृत्तिं चेष्टां किमर्थमेवं प्रवृत्तोऽसीति न जानामि। एवंभूतस्य तव प्रवृत्तिं वार्तामपि न जानामीति वा।