Chapter 11 · Verse 24

Yoga through Beholding the Cosmic Form of God

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो
nabhaḥ-spṛiśhaṁ aneka-varṇaṁ vyāttānanaṁ dīpta-viśhāla-netram tvāṁ dhṛitiṁ śhamaṁ

Word Meanings

nabhaḥ-spṛiśham dīptam aneka varṇam vyātta ānanam dīpta viśhāla netram dṛiṣhṭvā hi tvām pravyathitāntar-ātmā dhṛitim na vindāmi śhamam cha viṣhṇo

Translation

No translations available for this language.

Commentary

।।11.24।। न केवलं भीतोऽहमित्येतावदेव अपि तु -- नभःस्पृशमिति। नभः स्पृशतीति नभःस्पृक्तं। अन्तरिक्षव्यापिनमित्यर्थः। दीप्तं तेजोयुक्तम्। अनेके वर्णा यस्य तमनेकवर्णम्? व्यात्तानि विवृतान्याननानि यस्य तम्? दीप्तानि विशालानि नेत्राणि यस्य तम् एवंभूतं त्वां दृष्ट्वा प्रव्यथितोऽन्तरात्मा मनो यस्य सोऽहम् धृतिं धैर्यमुपशमं च न लभे।