Chapter 11 · Verse 23

Yoga through Beholding the Cosmic Form of God

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्
rūpaṁ bahu-vaktra-netraṁ bahu-bāhūru-pādam bahūdaraṁ bahu-danṣhṭrā-karālaṁ pravyathitās tathāham

Word Meanings

rūpam mahat te bahu vaktra netram mahā-bāho bahu bāhu ūru pādam bahu-udaram bahu-danṣhṭrā karālam dṛiṣhṭvā lokāḥ pravyathitāḥ tathā aham

Translation

No translations available for this language.

Commentary

।।11.23।।किंच -- रूपमिति। हे महाबाहो? महदत्यूर्जितं तव रूपं दृष्ट्वा लोकाः सर्वे प्रव्यथिता अतिभीताः? तथाहं प्रव्यथितोऽस्मि। कीदृशं रूपं दृष्ट्वा। बहूनि वक्त्राणि नेत्राणि च यस्मिंस्तत्? बहवो बाहव ऊरवः पादाश्च यस्मिंस्तत्? बहूनि उदराणि यस्मिंस्तत्? बहुभिर्दंष्ट्राभिः करालं विकृतं। रौद्रमित्यर्थः।