Chapter 2 · Verse 72

Transcendental Knowledge

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति
brāhmī sthitiḥ naināṁ sthitvāsyām ’pi

Word Meanings

eṣhā brāhmī sthitiḥ pārtha na enām prāpya vimuhyati sthitvā asyām anta-kāle api brahma-nirvāṇam ṛichchhati

Translation

No translations available for this language.

Commentary

।।2.72।।उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति एषेति। ब्राह्मीस्थितिर्ब्रह्मज्ञाननिष्ठा एषा एवंविधा। एनां परमेश्वराराधनेन शुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति पुनः संसारमोहं न प्राप्नोति। यतः अन्तकाले मृत्युसमयेऽप्यस्यां क्षणमात्रमपि स्थित्वा ब्रह्मणि निर्वाणं लयमृच्छति प्राप्नोति किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति।