Chapter 2 · Verse 71

Transcendental Knowledge

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शांतिमधिगच्छति
pumānśh nirmamo sa

Word Meanings

vihāya kāmān yaḥ sarvān pumān charati niḥspṛihaḥ nirmamaḥ nirahankāraḥ saḥ śhāntim adhigachchhati

Translation

No translations available for this language.

Commentary

।।2.71।।यस्मादेवं तस्मात् विहायेति। प्राप्तान्कामान्विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहंकारः अतएव तद्भोगसाधनेषु निर्ममः सन्नन्तर्दृष्टिर्भूत्वा यश्चरति प्रारब्धवशेन भोगान्भुङ्क्ते यत्र क्वापि गच्छति वा स शान्तिमाप्नोति।