Chapter 2 · Verse 51

Transcendental Knowledge

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्
karma-jaṁ buddhi-yuktā phalaṁ padaṁ gachchhanty-anāmayam

Word Meanings

karma-jam buddhi-yuktāḥ hi phalam tyaktvā manīṣhiṇaḥ janma-bandha-vinirmuktāḥ padam gachchhanti anāmayam

Translation

No translations available for this language.

Commentary

।।2.51।।कर्मणां मोक्षसाधनत्वप्रकारमाह कर्मेति। कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थमेव कर्म कुर्वाणा मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्ताः सन्तोऽनामयं सर्वोपद्रवरहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति।