Chapter 2 · Verse 50

Transcendental Knowledge

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्
buddhi-yukto jahātīha tasmād karmasu kauśhalam

Word Meanings

buddhi-yuktaḥ jahāti iha ubhe sukṛita-duṣhkṛite tasmāt yogāya yujyasva yogaḥ karmasu kauśhalam

Translation

No translations available for this language.

Commentary

।।2.50।।बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह बुद्धीति। सुकृतं स्वर्गादिप्रापकम् दुष्कृतं निरयादिप्रापकम् ते उभे इहैव जन्मनि परमेश्वरप्रसादेन जहाति त्यजति। तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व। यतः कर्मसु यत्कौशलं बन्धकानामपि तेषामीश्वराराधनेन मोक्षपरत्वसंपादनचातुर्यं स एव योगः।