Chapter 12 · Verse 13

The Yoga of Devotion

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी
sarva-bhūtānāṁ karuṇa nirmamo sama-duḥkha-sukhaḥ

Word Meanings

adveṣhṭā sarva-bhūtānām maitraḥ karuṇaḥ eva cha nirmamaḥ nirahankāraḥ sama duḥkha sukhaḥ kṣhamī

Translation

No translations available for this language.

Commentary

।।12.13।। एवंभूतस्य भक्तस्य क्षिप्रमेव परमेश्वरप्रसादहेतून्धमानाह -- अद्वेष्टेत्यष्टभिः। सर्वभूतानां यथायथमद्वेष्टा? मैत्रः? करुणश्च उत्तमेषु द्वेषशून्यः? समेषु मित्रतया वर्तत इति मैत्रः। हीनेषु कृपालुरित्यर्थः। निर्ममो निरहंकारश्च। कृपालुत्वादेवान्यैः सह समे दुःखसुखे यस्य सः। क्षमी क्षमावान्।