Chapter 12 · Verse 12

The Yoga of Devotion

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्
śhreyo abhyāsāj jñānād dhyānaṁ karma-phala-tyāgas tyāgāch chhāntir

Word Meanings

śhreyaḥ hi jñānam abhyāsāt jñānāt dhyānam viśhiṣhyate dhyānāt karma-phala-tyāgaḥ tyāgāt śhāntiḥ anantaram

Translation

No translations available for this language.

Commentary

।।12.12।। तमिमं फलत्यागं स्तौति -- श्रेयो हीति। सम्यग्ज्ञानरहितादभ्यासाद्युक्तिसहितोपदेशपूर्वकं ज्ञानं श्रेष्ठं। तस्मादपि तत्पूर्वकं ध्यानं श्रेष्ठं।ततस्तु तं पश्यति निष्कलं ध्यायमानः इति श्रुतेः। तस्मादप्युक्तलक्षणः कर्मफलत्यागः श्रेष्ठः? तस्मादेवं,भूतात्कर्मफलत्यागात्कर्मसु तत्फलेषु चासक्तिनिवृत्त्या मत्प्रसादेन च समनन्तरमेव संसारशान्तिर्भवति।