Chapter 7 · Verse 1

Self-Knowledge and Enlightenment

श्री भगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु
śhrī bhagavān uvācha mayyāsakta-manāḥ yogaṁ mad-āśhrayaḥ asanśhayaṁ samagraṁ māṁ tach chhṛiṇu

Word Meanings

śhrī-bhagavān uvācha mayi āsakta-manāḥ pārtha yogam yuñjan mat-āśhrayaḥ asanśhayam samagram mām yathā jñāsyasi tat śhṛiṇu

Translation

No translations available for this language.

Commentary

।।7.1।।विज्ञेयमात्मनस्तत्त्वं सयोगं समुदाहृतम्। भजनीयमथेदानीमैश्वरं रूपमीर्यते।।1।।पूर्वाध्यायान्ते मद्गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मत इत्युक्तं तत्र कीदृशस्त्वं यस्य भक्तिः कर्तव्येत्यपेक्षायां स्वस्वरूपं निरूपयिष्यञ्श्रीभगवानुवाच मय्यासक्तमना इति। मयि परमेश्वरे आसक्तमभिनिविष्टं मनो यस्य सः। मदाश्रयोऽहमेवाश्रयो यस्यानन्यशरणः सन्योगं युञ्जन्नभ्यसन् असंशयं यता भवत्येवं मां समग्रं विभूतिबलैश्वर्यादिसहितं यथा ज्ञास्यसि तदिदं मया वक्ष्यमाणं शृणु।