Chapter 7 · Verse 2

Self-Knowledge and Enlightenment

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते
jñānaṁ ’haṁ sa-vijñānam idaṁ vakṣhyāmyaśheṣhataḥ yaj neha bhūyo ’nyaj jñātavyam-avaśhiṣhyate

Word Meanings

jñānam te aham sa vijñānam idam vakṣhyāmi aśheṣhataḥ yat jñātvā na iha bhūyaḥ anyat jñātavyam avaśhiṣhyate

Translation

No translations available for this language.

Commentary

।।7.2।।वक्ष्यमाणं स्तौति ज्ञानमिति। ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम्। इदं मद्विषयम्। अशेषतः साकल्येन वक्ष्यामि। यज्ज्ञात्वेह श्रेयोमार्गे वर्तमानस्य पुनरन्यज्ज्ञातव्यमवशिष्टं न भवति। तेनैव कृतार्थो भवतीत्यर्थः।