Chapter 7 · Verse 12

Self-Knowledge and Enlightenment

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि नत्वहं तेषु ते मयि
chaiva sāttvikā bhāvā rājasās tāmasāśh matta eveti tvahaṁ

Word Meanings

ye cha eva sāttvikāḥ bhāvāḥ rājasāḥ tāmasāḥ cha ye mattaḥ eva iti tān viddhi na tu aham teṣhu te mayi

Translation

No translations available for this language.

Commentary

।।7.12।। किंच ये चेति। ये चान्येऽपि सात्त्विका भावाः शमदमादयः राजसाश्च द्वेषदर्पादयः तामसाश्च शोकमोहादयः प्राणिनां स्वकर्मवशाज्जायन्ते तान्सर्वान्मत्त एव जातानिति विद्धि। मदीयप्रकृतिगुणत्रयकार्यत्वात्। एवमपि तेष्वहं न वर्ते। जीववत्तदधीनोऽहं न भवामीत्यर्थः। ते तु मदधीनाः सन्तो मयि वर्तन्त इत्यर्थ।