Chapter 7 · Verse 11

Self-Knowledge and Enlightenment

बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ
balaṁ balavatāṁ chāhaṁ kāma-rāga-vivarjitam dharmāviruddho kāmo ’smi bharatarṣhabha

Word Meanings

balam bala-vatām cha aham kāma rāga vivarjitam dharma-aviruddhaḥ bhūteṣhu kāmaḥ asmi bharata-ṛiṣhabha

Translation

No translations available for this language.

Commentary

।।7.11।।किंच बलमिति। कामोऽप्राप्ते वस्तुन्यभिलाषो राजसः रागः पुनरभिलषितेऽर्थे प्राप्तेऽपि पुनरधिकेऽर्थे चित्तरञ्जनात्मकस्तृष्णापरपर्यायस्तामसः ताभ्यां विवर्जितं बलवतां बलमस्मि। सात्त्विकं स्वधर्मानुष्ठानसामर्थ्यमहमित्यर्थः। स्वधर्मेणाविरुद्धः स्वदारेषु पुत्रोत्पत्तिमात्रोपयोगी कामोऽहम्।