Chapter 5 · Verse 21

Path of Renunciation

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते
bāhya-sparśheṣhvasaktātmā vindatyātmani sa brahma-yoga-yuktātmā

Word Meanings

bāhya-sparśheṣhu asakta-ātmā vindati ātmani yat sukham saḥ brahma-yoga yukta-ātmā sukham akṣhayam aśhnute

Translation

No translations available for this language.

Commentary

।।5.21।।मोहनिवृत्त्या बुद्धिस्थैर्यहेतुमाह बाह्यस्पर्शेष्विति। इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः बाह्येन्द्रियविषयेष्वसक्तात्मानासक्तचित्तः आत्मन्यन्तःकरणे यदुपशमात्मकं सात्त्विकं सुखं तद्विन्दति लभते। स चोपशमात्मकं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षय्यं सुखमश्नुते प्राप्नोति।