Chapter 5 · Verse 20

Path of Renunciation

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः
priyaṁ nodvijet chāpriyam sthira-buddhir asammūḍho brahma-vid

Word Meanings

na prahṛiṣhyet priyam prāpya na udvijet prāpya cha apriyam sthira-buddhiḥ asammūḍhaḥ brahma-vit brahmaṇi sthitaḥ

Translation

No translations available for this language.

Commentary

।।5.20।।ब्रह्मप्राप्तस्य लक्षणमाह नेति। यो ब्रह्मविद्भूत्वा ब्रह्मण्येव स्थितः स प्रियं प्राप्य न प्रहृष्येन्न प्रहृष्टो हर्षवान्स्यात्। अप्रियं च प्राप्य नोद्विजेत्। न विषीदेदित्यर्थः। यतः स्थिरबुद्धिः स्थिरा निश्चला बुद्धिर्यस्य। तत्कुतः। यतोऽसंमूढो निवृत्तमोहः।