Chapter 4 · Verse 15

Path of Knowledge and the Disciplines of Action

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्
evaṁ kṛitaṁ pūrvair karmaiva tasmāttvaṁ pūrvataraṁ

Word Meanings

evam jñātvā kṛitam karma pūrvaiḥ api mumukṣhubhiḥ kuru karma eva tasmāt tvam pūrvaiḥ pūrva-taram kṛitam

Translation

No translations available for this language.

Commentary

।।4.15।।ये यथा मां प्रपद्यन्ते इत्यादिचतुर्भिः श्लोकैः प्रासङ्गिकमीश्व रस्य वैषम्यं परिहृत्य पूर्वोक्तमेव कर्मयोगं प्रपञ्चयितुमनुस्मारयति एवमिति। अहंकारादिराहित्येन कृतं कर्म बन्धकं न भवतीत्येवं ज्ञात्वा पूर्वैर्जनकादिभिरपि मुमुक्षुभिः सत्त्वशुद्ध्यर्थं पूर्वतरं युगान्तरेष्वपि कृतम्। तस्मात्त्वमपि प्रथमं कर्मैव कुरु।