Chapter 4 · Verse 14

Path of Knowledge and the Disciplines of Action

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते
māṁ māṁ yo ’bhijānāti karmabhir sa

Word Meanings

na mām karmāṇi limpanti na me karma-phale spṛihā iti mām yaḥ abhijānāti karmabhiḥ na saḥ badhyate

Translation

No translations available for this language.

Commentary

।।4.14।। तदेव दर्शयन्नाह न मामिति। कर्माणि विश्व सृष्ट्यादीन्यपि मां न लिम्पन्ति आसक्तं न कुर्वन्ति। निरहंकारत्वात्। आप्तकामत्वेन मम कर्मफले स्पृहाभावाच्च मां न लिम्पन्तीति किं वक्तव्यम्। यतः कर्मफले स्पृहाराहित्येन मां योऽभिजानाति सोऽपि कर्मभिर्न बध्यते। मम निर्लेपत्वे कारणं निरहंकारत्वनिःस्पृहत्वादिकं जानतस्तस्याप्यहंकारादिशैथिल्यात्।