Chapter 14 · Verse 4

Yoga through Understanding the Three Modes of Material Nature

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता
sarva-yoniṣhu tāsāṁ brahma mahad yonir ahaṁ

Word Meanings

sarva yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ tāsām brahma-mahat yoniḥ aham bīja-pradaḥ pitā

Translation

No translations available for this language.

Commentary

।।14.4।। न केवलं सृष्ट्युपक्रम एव मदधिष्ठिताभ्यां प्रकृतिपुरुषाभ्यामयं भूतोत्पत्तिप्रकारः अपितु सर्वदैवेत्याह -- सर्वयोनिष्विति। सर्वासु योनिषु मनुष्याद्यासु या मूर्तयः स्थावरजङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद्ब्रह्म प्रकृतिः योनिर्मातृस्थानीया। अहं च बीजप्रदः गर्भाधानादिकर्ता पिता।