Chapter 14 · Verse 2

Yoga through Understanding the Three Modes of Material Nature

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च
idaṁ ’pi nopajāyante vyathanti

Word Meanings

idam jñānam upāśhritya mama sādharmyam āgatāḥ sarge api na upajāyante pralaye na-vyathanti cha

Translation

No translations available for this language.

Commentary

।।14.2।।किंच -- इदमिति। इदं वक्ष्यमाणं ज्ञानमुपाश्रित्य इदं ज्ञानसाधनमनुष्ठाय मम साधर्म्यं मद्रूपत्वं प्राप्ताः सन्तः सर्गेऽपि ब्रह्मादिषूत्पद्यमानेष्वपि नोत्पद्यन्ते तथा प्रलयेऽपि न व्यथन्ति प्रलये दुःखानि नानुभवन्ति। पुनर्नावर्तन्त इत्यर्थः।