Chapter 14 · Verse 19

Yoga through Understanding the Three Modes of Material Nature

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति
nānyaṁ kartāraṁ draṣhṭānupaśhyati guṇebhyaśh paraṁ mad-bhāvaṁ so ’dhigachchhati

Word Meanings

na anyam guṇebhyaḥ kartāram yadā draṣhṭā anupaśhyati guṇebhyaḥ cha param vetti mat-bhāvam saḥ adhigachchhati

Translation

No translations available for this language.

Commentary

।।14.19।।तदेवं प्रकृतिगुणसङ्गकृतं संसारं प्रपञ्चमुक्त्वा इदानीं तद्विवेकतो मोक्षं दर्शयति -- नान्यमिति। यदा तु द्रष्टा विवेकी भूत्वां बुद्ध्याद्याकारपरिणतेभ्यो गुणेभ्योऽन्यं कर्तारं नानुपश्यति? अपितु गुणा एव कर्माणि कुर्वन्तीति पश्यति? गुणेभ्यश्च परं व्यतिरिक्तं तत्साक्षिणमात्मानं वेत्ति स तु मद्भावं ब्रह्मत्वमधिगच्छति प्राप्नोति।