Chapter 14 · Verse 17

Yoga through Understanding the Three Modes of Material Nature

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च
jñānaṁ rajaso lobha pramāda-mohau tamaso bhavato

Word Meanings

sattvāt sañjāyate jñānam rajasaḥ lobhaḥ eva cha pramāda mohau tamasaḥ bhavataḥ ajñānam eva cha

Translation

No translations available for this language.

Commentary

।।14.17।। तत्रैव हेतुमाह -- सत्त्वादिति। सत्त्वाज्ज्ञानं संजायते। अतः सात्त्विकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति। रजसो लोभो जायते। तस्य च दुःखहेतुत्वात्? तत्पूर्वकस्य कर्मणो दुःखं फलं भवति। तमसस्तु प्रमादमोहाज्ञानानि भवन्ति। ततस्तामसस्य कर्मणोऽज्ञानप्रापकं फलं भवतीति युक्तमेवेत्यर्थः।