Chapter 14 · Verse 14

Yoga through Understanding the Three Modes of Material Nature

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।तदोत्तमविदां लोकानमलान्प्रतिपद्यते
pralayaṁ tadottama-vidāṁ

Word Meanings

yadā sattve pravṛiddhe tu pralayam yāti deha-bhṛit tadā uttama-vidām lokān amalān pratipadyate

Translation

No translations available for this language.

Commentary

।।14.14।। मरणसमय एव वृद्धानां सत्त्वाद्रीनां फलविशेषमाह -- यदेति द्वाभ्याम्। सत्त्वे प्रवृद्धे सति यदा जीवो मृत्युं प्राप्नोति तदा उत्तमान् हिरण्यगर्भादीन्विदन्ति उपासत इत्युत्तमविदस्तेषां ये अमलाः प्रकाशमया लोकाः सुखोपभोगस्थानविशेषास्तान्प्रतिपद्यते प्राप्नोति।