Chapter 14 · Verse 11

Yoga through Understanding the Three Modes of Material Nature

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत
sarva-dvāreṣhu ’smin prakāśha jñānaṁ vidyād vivṛiddhaṁ ity

Word Meanings

sarva dvāreṣhu dehe asmin prakāśhaḥ upajāyate jñānam yadā tadā vidyāt vivṛiddham sattvam iti uta

Translation

No translations available for this language.

Commentary

।।14.11।।इदानीं सत्त्वादीनां वृद्धानां लिङ्गान्याह त्रिभिः -- सर्वद्वारेष्विति। अस्मिन्नात्मनो भोगायतने देहे सर्वेष्वपि द्वारेषु श्रोत्रादिषु यदा शब्दादिज्ञानात्मकः प्रकाश उपजायते उत्पद्यते तदा अनेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याज्जानीयत्। उतशब्दात्सुखादिलिङ्गेनापि जानीयादित्युक्तम्।