Chapter 18 · Verse 75

Yoga through the Perfection of Renunciation and Surrender

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्
vyāsa-prasādāch chhrutavān etad ahaṁ yogaṁ yogeśhvarāt

Word Meanings

vyāsa-prasādāt śhrutavān etat guhyam aham param yogam yoga-īśhvarāt kṛiṣhṇāt sākṣhāt kathayataḥ svayam

Translation

No translations available for this language.

Commentary

।।18.75।।आत्मनस्तच्छ्रवणे संभावनामाह -- व्यासप्रसादादिति। भगवता व्यासेन दिव्यं चक्षुःश्रोत्रादि मह्यं दत्तम्? अतो व्यासस्य प्रसादादेतदहं श्रुतवानस्मि। किं तदित्यपेक्षायामाह परं योगम्। परत्वमाविष्करोति। योगेश्वराच्छ्रीकृष्णात्स्वयमेव साक्षात्कथयतः श्रुतवानिति।