Chapter 18 · Verse 69

Yoga through the Perfection of Renunciation and Surrender

न च तस्मान्मनुष्येषु कश्िचन्मे प्रियकृत्तमः।भविता न च मे तस्मादन्यः प्रियतरो भुवि
tasmān kaśhchin priya-kṛittamaḥ tasmād priyataro

Word Meanings

na cha tasmāt manuṣhyeṣhu kaśhchit me priya-kṛit-tamaḥ bhavitā na cha me tasmāt anyaḥ priya-taraḥ bhuvi

Translation

No translations available for this language.

Commentary

।।18.69।।किंच -- नचेति। तस्मान्मद्भक्तेभ्यो गीताशास्त्रव्याख्यातुः सकाशादन्यो मनुष्येषु मध्यें कश्चिदपि मम प्रियकृत्तमोऽत्यन्तं परितोषकर्ता नास्ति। नच कालातरे भविता भविष्यति। ममापि तस्मादन्यः प्रियतरोऽधुना भुवि तावन्नास्ति। नच कालान्तरेऽपि भविष्यतीत्यर्थः।