Chapter 18 · Verse 6

Yoga through the Perfection of Renunciation and Surrender

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।कर्तव्यानीति मे पार्थ निश्िचतं मतमुत्तमम्
etāny api tu saṅgaṁ kartavyānīti niśhchitaṁ

Word Meanings

etāni api tu karmāṇi saṅgam tyaktvā phalāni cha kartavyāni iti me pārtha niśhchitam matam uttamam

Translation

No translations available for this language.

Commentary

।।18.6।।येन प्रकारेण कृतान्येतानि पावनानि भवन्ति तं प्रकारं दर्शयन्नाह -- एतानीति। यानि यज्ञादिकर्माणि मया पावनानीत्युक्तं एतान्येव कर्तव्यानि। कथम्। सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराराधनतया कर्तव्यानीति फलानि च त्यक्त्वा कर्तव्यानीति च निश्चितं मे मम मतम्। अत एवोत्तमम्।