Chapter 18 · Verse 47

Yoga through the Perfection of Renunciation and Surrender

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्
swa-dharmo sv-anuṣhṭhitāt svabhāva-niyataṁ nāpnoti

Word Meanings

śhreyān swa-dharmaḥ viguṇaḥ para-dharmāt su-anuṣhṭhitāt svabhāva-niyatam karma kurvan na āpnoti kilbiṣham

Translation

No translations available for this language.

Commentary

।।18.47।।स्वकर्मणेति विशेषणस्य फलमाह -- श्रेयानिति। विगुणोऽपि स्वधर्मः सम्यगनुष्ठितादपि परधर्माच्छ्रेयाञ्छ्रेष्ठः। नच बन्धुवधादियुक्ताद्युद्धादेः स्वधर्माद्भिक्षाटनादिपरधर्मः श्रेष्ठ इति मन्तव्यम्। यतः स्वभावेन पूर्वोक्तेन नियतं नयमेनोक्तं कर्म कुर्वन्किल्बिषं नाप्नोति।