Chapter 18 · Verse 20

Yoga through the Perfection of Renunciation and Surrender

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्
yenaikaṁ avibhaktaṁ taj jñānaṁ

Word Meanings

sarva-bhūteṣhu yena ekam bhāvam avyayam īkṣhate avibhaktam vibhakteṣhu tat jñānam viddhi sāttvikam

Translation

No translations available for this language.

Commentary

।।18.20।।तत्र ज्ञानस्य सात्त्विकादि त्रैविध्यमाह -- सर्वभूतेष्विति त्रिभिः। सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु विभक्तेषु परस्परं व्यावृत्तेषु अविभक्तमनुस्यूतं एकमव्ययं निर्विकारं भावं परमात्मतत्त्वं येन ज्ञानेनेक्षते आलोचयति तज्ज्ञानं सात्त्विकं विद्धि।