Chapter 18 · Verse 11

Yoga through the Perfection of Renunciation and Surrender

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते
śhakyaṁ tyaktuṁ karmāṇy yas karma-phala-tyāgī sa tyāgīty

Word Meanings

na hi deha-bhṛitā śhakyam tyaktum karmāṇi aśheṣhataḥ yaḥ tu karma-phala tyāgī saḥ tyāgī iti abhidhīyate

Translation

No translations available for this language.

Commentary

।।18.11।।नन्वेवंभूतात्कर्मफलत्यागाद्वरं सर्वकर्मत्यागस्तथा सति कर्मविक्षेपाभावेन ज्ञाननिष्ठा सुखं संपद्यते तत्राह -- नेति। देहभृता देहात्माभिमानवता निःशेषेण सर्वाणि कर्माणि त्यक्तुं नहि शक्यम्। तदुक्तम् -- न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत इत्यादिना। तस्माद्यस्तु कर्माणि कुर्वन्नेव कर्मफलत्यागी स एव मुख्यत्यागीत्यभिधीयते।