Chapter 9 · Verse 7

Yoga through the King of Sciences

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्
prakṛitiṁ punas kalpādau visṛijāmyaham

Word Meanings

sarva-bhūtāni kaunteya prakṛitim yānti māmikām kalpa-kṣhaye punaḥ tāni kalpa-ādau visṛijāmi aham

Translation

No translations available for this language.

Commentary

।।9.7।।तदेवमसङ्गस्य योगमायया स्थितिहेतुत्वमुक्तम् तयैव सृष्टिप्रलयहेतुत्वं चाहं -- सर्वेति। कल्पक्षये प्रलयकाले सर्वाणि भूतानि मदीयां प्रकृतिं यान्ति त्रिगुणात्मिकायां मायायां लीयन्ते? पुनः कल्पादौ सृष्टिकाले तानि विसृजामि विशेषेण सृजामि।